Showing posts with label rahu stotram mp3 download. Show all posts
Showing posts with label rahu stotram mp3 download. Show all posts

Tuesday, 26 November 2013

beejakshara mantra 25 Names of Rahu for Success

राहु स्तोत्र

Rahu 


राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । 

अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥ 

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः । 

ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥ 

कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः । 

विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥ ३ ॥ 

ग्रहपीडाकरो द्रंष्टी रक्तनेत्रो महोदरः । 

पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥ 

यः पठेन्महती पीडा तस्य नश्यति केवलम् । 

विरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५ ॥ 

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । 

सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥ ॥ 

इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥



LinkWithin

Related Posts Plugin for WordPress, Blogger...