!! Shree Krishnashtakam !!
!! श्री कृष्णाष्टकं !!
भजे व्रजेकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम !
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनङ्गरङ्गसागरम् नमामि कृष्णनागरम !1!!
मनोजगर्वमोचनं विशाललोललोचनं
विधुतगोपशोचनं नमामि पद्यलोचनं !
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णवारणं !2!!
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजान्गनैकवल्ल्भं नमामि कृष्णदुर्लभम् !
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकं !3!!
सदैव पादपङ्कजम् मदीयमानसे निजं
दधानमुत्तमालकं नमामि नन्दबालकं !
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम् !4!!
भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम् !
दृगन्तकान्तभंगिनं सदासदालसंगिनं
दिने दिने नवं नवं नमामि नन्दसंभवं !5!!
गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनं !
नवीनगोपनागरं नवीनकेलिलंपटम्
नमामि मेघसुन्दरं तदित्प्रभालसत्पटम् !6!!
समस्तगोपनन्दनं हृदम्बुजैकमोदनं
नमामि कुन्ज्मध्यगं प्रसन्नभानुशोभनम् !
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुञ्जनायकं !7!!
विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुञ्जकानेन प्रवृद्धवन्हिपयिनं !
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम् !
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान् !8!!
Click Play to Listen & Watch "Krishnashtakam"
Click Play to Listen & Watch "Krishnashtakam"
No comments:
Post a Comment